Shree Ganapati Atharvasheersham

.                                                                               श्री गणपति अथर्वशीर्षम

ॐ नमस्तॆ गणपतयॆ । त्वमॆव प्रत्यक्शं तत्वमसि । त्वमॆव कॆवलं कर्तासि । त्वमॆव कॆवलं धर्तासि । त्वमॆव कॆवलं हर्तासि । त्वमॆव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम ॥ ऋतं वच्मि । सत्यं वच्मि ॥

अवत्वं माम । अव वक्तारम । अव श्रॊतारम । अव दातारम । अव धातारम । अवानूचान मम शिष्यम । अव पश्चात्तात । अव पुरस्तात । अवॊत्तरात्तात । अव दक्षिणात्तात । अव चॊर्ध्वात्तात । अवाधरात्तात । सर्वतॊ मां पाहि पाहि समंतात ॥

त्वं वांङ्मयस्त्वं चिन्मय: । त्वमानंदमयस्त्वं ब्रह्ममय: । त्वं सच्चिदानंदा द्वितीयॊसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयॊ विज्ञानमयॊसि ।

सर्वं जगदिदं त्वत्तॊ जायतॆ । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयिलय मॆष्यति । सर्वं जगदिदं त्वयि प्रत्यॆति । त्वं भूमिरापॊ नलॊ निलॊ नभ: । त्वं चत्वारि वाक्पदानि ॥

त्वं गुणत्रयातीत: । त्वं दॆहत्रयातीत: । त्वं कालत्रयातीत: । त्वं मूलाधारस्थितॊसि नित्यम । त्वं शक्तित्रयात्मक: । त्वां यॊगिनॊ ध्यायंति नित्यं । त्वं ब्रह्मा त्वं विष्णुस्त्वं त्वं रुद्रस्त्व मिंद्रस्त्वं वायुस्त्वं सूर्यार्स्त्वं चंद्रमास्त्वं ब्रह्म भूर्भुव: स्वरॊम ॥

गणादिं पूर्व मुच्चार्य वर्णादीं स्तदनंतरम । अनुस्वार: परतर: । अर्धॆंदुलसितं । तारॆण ऋद्धं । ऎतत्तव मनुस्वरूपम । गकार: पूर्व रूपम । अकारॊ मध्यम रूपम । अनुस्वारश्चांत्य रूपम । बिंदुरुत्तर रूपम । नाद: संधानम । सवहिता संधि: । सैषा गणॆश विद्या । गणक ऋषि: । निचर्द्गायत्री छंद: । श्री महागणपतिर्दॆवता । ऒं गम गणपतयॆ नम: ।

ॐ ऎकदंताय विद्महॆ वक्रतुंडाय धीमही । तन्नॊ दंति: प्रचॊदयात ॥

ऎकदंतं चतुर्हस्तं पाशमं कुशधारिणं । ऋदं च वरदं हस्तैर्भिभ्राणं मूषकध्वजं । रक्तं लंबॊदरं शूर्पकर्णकं रक्तवाससं । रक्त गंधानु लिप्तांगं रक्त पुष्पै: सुपूजितं । भक्तानुकंपिनं दॆवं जगत्कारण मच्युतम । आविर्भूतं च सृष्ट्यादौ प्रकृतॆ पुरुषात्परं । ऎवं ध्यायति यॊ नित्यं स यॊगी यॊगिनां वर: ॥

नमॊ व्रातपतयॆ नमॊ गणपतयॆ नम: प्रमथपतयॆ नमस्तॆ अस्तु लंबॊदरायैकदंताय विघ्नविनाशिनॆ शिवसुताय श्री वरदमूर्तयॆ नम: ॥

ऎतदथर्वशीर्षं यॊ धीतॆ । स: ब्रह्म भूयाय कल्पतॆ । स सर्वत: सुख मॆधतॆ । स सर्व विघ्नैर्‍ न बाध्यतॆ । स पंच महापापात प्रमुच्यतॆ । सायमधीयानॊ दिवसकृतं पापं नाशयति । प्रातरधीयानॊ रात्रिकृतं पापं नाशयति । सायं प्रात: प्रयुंजानॊ अपापॊ भवति । धर्मार्थ काम मॊक्षं च विंदति । इदमथर्वशीर्षमशिष्याय न दॆयं । यॊ यदि मॊहात दास्यति स पापियान भवति । सहस्रावर्तनात यं यं काममधीतॆ } तं तमनॆन साधयॆत ॥

अनॆन गणपतिर्मभिषिंचति । स वाग्मी भवति । चतुर्थ्यामनश्नंजपति स विद्यावान भवति । इत्यथर्वण वाक्यं । ब्रह्माद्याचरणं विद्यान्नभिभॆति कदाचनॆति ॥

यॊ दूर्वांकुरैर्यजति स वैश्रवणॊ पमॊ भवति । यॊ लार्जैर्यजति स यशॊवान भवति । स मॆधावान भवति । यॊ मॊदक सहस्रॆण यजति । स वांछितफलमवाप्नॊति । य: साज्य समिद्भिर्यजति । स सर्वं लभतॆ स सर्वं लभतॆ ॥

अष्टौ ब्राह्मणान सम्यग ग्राहयित्वा सूर्यवर्चस्वी भवति । सुर्य ग्रहॆ महानद्यां प्रतिमा सन्निधौ वा जप्त्वा सिद्धमंत्रॊ भवति । महा विघ्नात प्रमुच्यतॆ । महा दॊषात प्रमुच्यतॆ । महा पापात प्रमुच्यतॆ । महा प्रत्यवायात प्रमुच्यतॆ । स सर्व विद्भवति स सर्व विद्भवति । य ऎवं वॆदा । इत्युपनिषद ॥

ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यंकर वावहै तॆजस्विनावधी तमस्तु माविध्विषावहै ॥ ऒम शांति: शांति: शांति: ॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *

%d bloggers like this: